|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.193. अध्यायः 193
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन भीष्मादीन्प्रति युष्माभिः कियता कालेन समग्रपरसेनाक्षपणं कर्तुं शक्यमिति प्रश्ने तैः पृथक्पृथक्तदुत्तरदानम् ॥ 1 ॥

Mahabharata - Udyoga Parva - Chapter Text
संजय उवाच। 5-193-0x(3940)(38520)
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव।
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥ 5-193-1(38521)
दुर्योधन उवाच। 5-193-2x(3941)
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुद्यतम्।
प्रभूतनरनागाश्वं महारथसमाकुलम् ॥ 5-193-2(38522)
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः ।
लोकपालसमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥ 5-193-3(38523)
अप्रधृष्यमनावार्यमुद्धूतमिव सागरम् ।
सेनासागरमक्षोभ्यमपि देवार्महाहवे ॥ 5-193-4(38524)
केन कालेन गाङ्गेय क्षपयेथा महाद्युते ।
आचार्यो वा महेष्वासः कृपो वाऽऽशु महाबलः ॥ 5-193-5(38525)
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः ।
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥ 5-193-6(38526)
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे।
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ॥ 5-193-7(38527)
भीष्म उवाच। 5-193-8x(3942)
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते।
बलाबलममित्राणां तेषां यदिह पृच्छसि ॥ 5-193-8(38528)
श्रृणु राजन्मम रणे या शक्तिः परमा भवेत् ।
शस्त्रवीर्ये रणे यच्च भुजयोश्च महाभुज ॥ 5-193-9(38529)
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः।
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ॥ 5-193-10(38530)
हन्यामहं महाभाग पाण्डवानामनीकिनीम् ।
दिवसे दिवसे कृत्वा भागान्भागान्निजान्मम ॥ 5-193-11(38531)
योधानां दशसाहस्रं कृत्वा भागं महाद्युते ।
सहस्रं रथिनामेकमेष भागो मतो मम ॥ 5-193-12(38532)
अनेनाहं विधानेन सन्नद्धः सततोत्थितः ।
क्षपयेयं महत्सैन्यं कालेनानेन भारत ॥ 5-193-13(38533)
मुञ्चेयं यदि वास्त्राणि महान्ति समरे स्थितः ।
शतसाहस्रघातीनि हन्यां मासेन भारत ॥ 5-193-14(38534)
संजय उवाच। 5-193-15x(3943)
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्ततः ।
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥ 5-193-15(38535)
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् ।
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥ 5-193-16(38536)
स्थविरोऽस्मि महाबाहो मन्दप्राणविचेष्टितः ।
शस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥ 5-193-17(38537)
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम ।
एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥ 5-193-18(38538)
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्।
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्।
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्॥ 5-193-19(38539)
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः।
जहास सस्वनं हासं वाक्यं चेदमुवाच ह ॥ 5-193-20(38540)
न हि यावद्रणे पार्थं बाणशङ्खधनुर्धरम्।
वासुदेवसमायुक्तं रथेनायान्तमाहवे ॥ 5-193-21(38541)
समागच्छसि राधेय तेनैवमभिमन्यसे ।
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ॥ ॥ 5-193-22(38542)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि विनवत्यधिकशततमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|